Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कतिपयेषु दिनेषु अमेरिका हुथीविद्रोहिणः लक्ष्यं कृत्वा विनाशं कुर्वन् अस्ति। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः हुथीसमूहाय भर्त्सनं यच्छन् एकं चलचित्रं प्रसारितवान्। यत्र कथं केवलं २५ क्षणेषेव हुथीविद्रोहिणां समूहः नष्टः अभवत्।

एतेन सह स:  सन्देशमपि दत्तवान् यत्र सः लिखितवान् यत्, "एते हुथी-जनाः आक्रमणस्य योजनां कर्तुं समागताः आसन्" इति । इदानीं हुथी-दलस्य जनाः किमपि आक्रमणं कर्तुं न शक्ष्यन्ति। इदानीं ते अस्माकं पोतान् मज्जयितुं न शक्ष्यन्ति। हुथी-दलस्य जनाः रक्तसागरे गच्छतां पोतानां लक्ष्यं कुर्वन्ति। हमास-सङ्घस्य समर्थने इजरायल-अमेरिका-पोतान् अधिकाधिकं लक्ष्यं कुर्वन्ति हुथी-सैनिकाः। तस्य प्रतिक्रियायै अमेरिकादेशेन हुथीस्थात्राणि नष्टानि ।

 

अद्यतनवार्ता

भारतम्

विश्वम्