कतिपयेषु दिनेषु अमेरिका हुथीविद्रोहिणः लक्ष्यं कृत्वा विनाशं कुर्वन् अस्ति। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः हुथीसमूहाय भर्त्सनं यच्छन् एकं चलचित्रं प्रसारितवान्। यत्र कथं केवलं २५ क्षणेषेव हुथीविद्रोहिणां समूहः नष्टः अभवत्।
एतेन सह स: सन्देशमपि दत्तवान् यत्र सः लिखितवान् यत्, "एते हुथी-जनाः आक्रमणस्य योजनां कर्तुं समागताः आसन्" इति । इदानीं हुथी-दलस्य जनाः किमपि आक्रमणं कर्तुं न शक्ष्यन्ति। इदानीं ते अस्माकं पोतान् मज्जयितुं न शक्ष्यन्ति। हुथी-दलस्य जनाः रक्तसागरे गच्छतां पोतानां लक्ष्यं कुर्वन्ति। हमास-सङ्घस्य समर्थने इजरायल-अमेरिका-पोतान् अधिकाधिकं लक्ष्यं कुर्वन्ति हुथी-सैनिकाः। तस्य प्रतिक्रियायै अमेरिकादेशेन हुथीस्थात्राणि नष्टानि ।