उत्तरप्रदेशस्य सम्भल इति शाहीजामामस्जिदस्य समीपे स्थित: कूप: योगीसर्वकारेण नवनिर्माणार्थं योजनाकृतेषु १९ प्राचीनकूपेषु अन्यतमं इति घोषितम्। सोमवासरे (२४ फरवरी २०२५) सर्वोच्चन्यायालये पञ्जीकृतेषु प्रतिवेदनेषु राज्यसर्वकारेण उक्तं यत् एषः कूपः सार्वजनिकभूमौ अस्ति। मस्जिदस्य भागः इति मिथ्या अस्ति। ज्ञातव्यं यत् शाहीमस्जिदः वस्तुतः हरिहरमन्दिरम् इति विषये विवादः प्रचलति। सर्वोच्चन्यायालयेन निम्नन्यायालये कार्यवाह्या: अन्तरिमनिरोधः कृतः। इतरथा सम्भले प्राचीनकूपानां अन्वेषणं उत्खननं च कर्तुं मस्जिदसमित्या याचिका पञ्जीकृता अस्ति।