उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अर्थसंकल्पसत्रे विधानपरिषद् सम्बोधितवान्। अस्मिन् समये महाकुम्भस्य संगठनस्य वर्णनं कृत्वा अवदत् यत् "एतस्य आयोजनस्य स्मरणं जगत् बहुकालं यावत् करिष्यति" इति । स.पा.नेतुः औरङ्गजेबविवादविषये मुख्यमन्त्री अवदत् यत्, 'भारतजनानाम् उपरि ’झझिया’ इति करं आरोपितवान्, स.पा.नेतार: तं आदर्शं मन्यन्ते। स.पा. विधायक अबू आजमी को उत्तरप्रदेशं प्रति प्रेषणिय:, वयं तस्य चिकित्सां करिष्यामः। अत्र नैके दुराचारिण: दुराचारं त्यक्तवन्त:। अस्मिन् प्रदेशे माफिया-जनाः धावन्ति स्म, आरक्षका: पलायन्ते स्म। आरक्षका: माफिया-समूहं नमस्कारं कुर्वन्त: आसन्। परन्तु, अधुना प्रदेशेन विधिव्यवस्थायाः विषये मनः परिवर्तितम् अस्ति। अद्यत्वे देशे विश्वे च जनाः अस्य प्रदेशस्य जनान् बहु आदरपूर्वकं पश्यन्ति।