उत्तरभारते नूतनवर्षे तीव्रशीतकालस्य अनुभव: कर्तव्यः भविष्यति। जलवायुविभागेन रविवासरे नूतनं पूर्वानुमानं प्रकाशितम्। तदनुसारं उत्तरभारते जनवरी-मासस्य चतुर्थे दिने नूतन-पाश्चात्य-उपद्रवस्य सम्भावना वर्तते। अनुमानानुसारं उत्तरभारते अपि ३० दिसम्बरतः शीततरङ्गस्य वृद्धिः भविष्यति। जनवरीमासस्य प्रथमदिनात् ३ जनवरीपर्यन्तं पर्वतीयक्षेत्रेषु विच्छिन्नवृष्टिः, हिमपातः च भविष्यति। पश्चिमे उपद्रवस्य कारणेन पञ्जाब-हरियाणाराज्ययोः अपि वर्षायाः सम्भावना वर्तते। आगामिषु २-३ दिवसेषु वायव्यभारतेषु पूर्वोत्तरराज्येषु च सघनतः अत्यन्तं सघनपर्यन्तं नीहारः, शीतदिवसस्य च स्थितिः दृश्यते। राजस्थानं, पञ्जाबं, हरियाणा, चण्डीगढं च शीततरङ्गस्य ग्रहणे सन्ति। एतेषु राज्येषु सघननीहारस्य सचेतना अपि विभागेन प्रकाशिता अस्ति।