Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य नैकेषु राज्येषु तापमानस्य न्यूनता निरन्तरं वर्धमाना अस्ति। राजस्थानस्य करौलीनगरे तापमानं १.३ डिग्रीपर्यन्तं अभवत्। सिकर-उदयपुर इत्यादिषु अनेकस्थानेषु वाहनेषु हिमसञ्चयः अभवत्। अत्र ४-५ दिवसान् यावत् शीततरङ्गः भविष्यति। अपरपक्षे पञ्जाबराज्ये अपि शीतस्य प्रभावः बहु अस्ति। प्रथमवारं फरीदकोट्-नगरे रात्रौ तापमानं ० डिग्रीपर्यन्तं जातम् । अबोहरस्य तापमानं ०.९ डिग्री आसीत्। जम्मू-काश्मीरस्य अनेकेषु भागेषु तापमानं न्यूनीभूत: अस्ति। श्रीनगरस्य दलसरोवरसहितेषु बहुषु जलाशयेषु जलघनीभवनम् आरब्धमस्ति। मध्यप्रदेशस्य १० नगराणि अपि देशस्य ३५ शीतलतमनगरेषु समाविष्टानि सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्