Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आगामिदिनेषु उत्तरभारते, पर्वतीयराज्येषु च वर्षा भवितुं सम्भावना अस्ति। नूतनपाश्चात्यविकारस्य कारणेन वातावरणं परिवर्तते। जलवायुविभागेन अपि समतलक्षेत्रेषु लघुवृष्टेः सचेतना उद्घोषिता अस्ति। पश्चिमहिमालयप्रदेशे २० जनवरीपर्यन्तं विच्छिन्नवृष्टिः, हिमपातस्य च सम्भावना वर्तते। तदनन्तरं नूतनपाश्चात्यविकारस्य कारणात् २१, २३ जनवरीपर्यन्तं वर्षा-हिमपातयोः वृद्धिः भविष्यति। पञ्जाब, हरियाणा, चण्डीगढ, दिल्ली, उत्तरराजस्थान, पश्चिमोत्तरप्रदेशेषु २१ जनवरीतः २३ जनवरीपर्यन्तं विकीर्णवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति। २१ जनवरी दिनाङ्के जम्मू-कश्मीर-लद्दाख-गिल्गित-बाल्टिस्तान, मुजफ्फरबाद-हिमाचल-प्रदेशेषु विद्युत्-सहितं वर्षासंभावना वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्