Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जलवायुविभागस्य अनुसारम् अद्य रात्रौ नूतनः पाश्चात्यविकारः सक्रियः भविष्यति। तस्य प्रभावात् मार्चमासस्य ३ दिनाङ्कात् परं पुनः वर्षाया: हिमपातस्य पूर्वानुमानमस्ति। हिमाचलप्रदेशे भूस्खलनस्य कारणेन अद्यापि मार्गाः पीहिता: सन्ति। राज्यस्य ४८० मार्गाः ४ राजमार्गाः च प्रभाविता: सन्ति। राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य अनुसारं शनिवासरस्य सायं यावत् द्विसहस्राधिकाः ट्रांसफार्मर-यन्त्राणि, ४३४ जलप्रदाययोजना: च बाधिता:। हिमाचले कुल्लूमण्डलस्य भुन्तरक्षेत्रे ११२ मि.मी., कोठीक्षेत्रे अधिकतमं १५ से.मी. हिमपात: जात:। जम्मू-श्रीनगरराष्ट्रियराजमार्गः शनिवासरे केवलं लघुवाहनानां कृते उद्घाटितः। पञ्जाब, राजस्थान, दिल्ली इत्यादिषु वायव्यराज्येषु न्यूनतमं तापमानं आगामिषु दिनेषु ३ तः ४ डिग्रीपर्यन्तं न्यूनीभवितुं शक्नोति। गोवा-कोङ्कण-कर्नाटक-तटीयक्षेत्रेषु वातावरणम् उष्णम् एव स्थास्यति। केषुचित् क्षेत्रेषु तापतरङ्गसदृश्य: परिस्थितयः प्रचलितुं शक्नुवन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्