तीव्रतापस्य मध्ये १८ राज्येषु वर्षाया: चक्रवातस्य वा सचेतना, जलवायुविभागस्य पूर्वानुमानम्
विगतदिनेषु देशे तीव्रतापेन जनाः पीडिता: सन्ति। परिस्थित्यामस्यां कञ्चित् उपशमं प्राप्नुयुः। जलवायुविभागेन देशस्य प्रायः १८ राज्येषु लघुतः प्रचण्डवृष्टेः पूर्वानुमानं कृतम् अस्ति। अस्मिन् दक्षिणभारत-बिहार-पश्चिमबङ्गाल-जम्मू-कश्मीर-पूर्वोत्तरराज्यानि-केरल-तमिलनाडुराज्यानि सन्ति। एतेषु राज्येषु मार्चमासस्य १५ दिनाङ्कपर्यन्तं वर्षा भवितुम् अर्हति। द्वयोः चक्रवातयोः कारणात् देशस्य विभिन्नेषु भागेषु वर्षा, प्रचण्डवायुः च भवितुं शक्यते। अस्य चक्रवातपरिवर्तनस्य प्रभावः भविष्यति यत् केषुचित् राज्येषु शैत्यं पुनः आगन्तुं शक्नोति, केषुचित् क्षेत्रेषु च तापः वर्धिष्यते।