Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बङ्गालस्य मुख्यमन्त्री ममता बनर्जी गुरुवासरे सायंकाले अवदत् यत् अद्य अहं विरोधं कुर्वतां वैद्यानां घण्टाद्वयं प्रतीक्षां कृतवती परन्तु ते संवादाय सज्जाः न सन्ति। जनानां सुखाय अहं त्यागपत्रं दातुमपि सज्जा अस्मि।

वस्तुतः बङ्गदेशे ये वैद्याः विरोधं कुर्वन्ति ते ममतासर्वकारेण सायं ५वादने सभायाः कृते आहूताः आसन्। वैद्याः नबन्ना-नगरं प्राप्तवन्तः, परन्तु सभायाः लाइव-प्रसारणस्य समये ते दृढा: आसन्, तदर्थं सर्वकारेण सहमति: न दत्ता। विरोधकर्तॄणां चिन्तनानुसारं गोष्ठ्या: पारदर्शिताया: कृते लाइव टेलिकास्ट भवतु इति।

अद्यतनवार्ता

भारतम्

विश्वम्