Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केरलस्य वायनाडनगरस्य भूस्खलनक्षेत्रेषु शुक्रवासरे प्रातः १०.१५ वादने भूमितः आगच्छद्भ्य: रहस्यपूर्णशब्दकारणात् जनाः आतङ्किताः जाता:। अम्बालवायलग्रामे, व्यथिरीक्षेत्रे च प्रातःकाले भूमित: उच्चैः विचित्ररव: श्रूयते स्म इति अधिकारिणः अवदन्। अधिकारिणा उक्तं यत् एतस्या: घटनायाः अनन्तरं क्षेत्रस्य जनाः भयभीताः सन्ति। सर्वे सुरक्षितस्थानेषु प्रेष्यन्ते। केरलराज्यस्य आपदाप्रबन्धनप्राधिकरणेन उक्तं यत् रिक्टरपरिमाणे भूकम्पस्य कोऽपि संकेतः नास्ति। शब्दस्य पृष्ठतः कारणस्य अन्वेषणं क्रियते। सम्प्रति क्षेत्रस्य विद्यालयेषु अवकाशदिनानि घोषितानि सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्