Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रविधानसभायां भारतीयजनतापक्षस्य भव्यविजयानन्तरं प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् देशस्य संविधाने वक्फमण्डलस्य स्थानमेव नास्ति। संविधाने वक्फ-मण्डलस्य उल्लेखः नास्ति । वस्तुतः कोङ्ग्रेसपक्षद्वारा तुष्टीकरणाय वक्फ-अधिनियमम् रचित:, देशस्य धनं च वक्फमण्डलाय समर्पित:। कोङ्ग्रेसपक्ष: वर्षेभ्य: मुसलमानानां तुष्टीकरणं करोति तस्य उदाहरणं वक्फबोर्ड अस्ति। वक्फ-अधिनियमस्य कारणेन स्थितिः एतादृशी अभवत् यत् २०१४ तमे वर्षे सर्वकारस्य गमनात् पूर्वं दिल्लीनगरं परितः सर्वसम्पत्तय: वक्फ-मण्डलाय समर्पिता: आसन्।

संसद्सत्रस्स्यारम्भः सोमवासरे भविष्यति, यस्मिन् मोदीसर्वकारः वक्फविधेयकस्य संशोधनं प्रवर्तयितुं शक्नोति, प्रधानमन्त्री नरेन्द्रमोदी तु वक्फविधेयकस्य विषये स्वस्य स्थितिं स्पष्टं कृतवान्। अपरपक्षे बेङ्गलूरुनगरे विश्वहिन्दूपरिषद्द्वारा आहूते सन्तसम्मेलने वक्फमण्डलेन हिन्दुभूमिषु कृतस्य अधिकारस्य विरुद्धम् अभियानस्य आह्वानं कृतम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्