केन्द्रसर्वकारेण लोकसभायां वक्फ-अधिनियमस्य संशोधनार्थं विधेयकं प्रस्तावितम् आसीत्, येन सत्ताधारिदलस्य विपक्षस्य च मध्ये उष्णवादाः उत्पन्नाः। विपक्षीया:अस्य विधेयकस्य विरोधं कृतवान्, एनडीए इति भारतलोकतान्त्रिकसङ्घटन-पक्षैः तु तस्य समर्थनं कृतम्। मध्याह्नात् अर्धरात्रौ १२:०० वादनपर्यन्तं अस्योपरि चर्चा जाता। विधेयकं केन्द्रीयमन्त्री किरेन् रिजिजु इत्यनेन प्रस्तावितं। वादविवादस्य अन्ते लोकसभायां एतत् विधेयकं पारितं, गुरुवासरे राज्यसभायां तस्य प्रस्तावः सम्भवति। वादविवादस्य समये केन्द्रीयगृहमन्त्री अमितशाहः विधेयकस्य रक्षणार्थं स्पष्टीकरणं कृतवान् यत्, "अहं देशस्य मुसलमानान् वक्तुम् इच्छामि यत् वक्फमध्ये एकः अपि अमुस्लिमः न समाविष्टः भविष्यति" इति। मुस्लिमजनानां धार्मिककार्येषु हस्तक्षेपः अस्ति इति भ्रमणा: सन्ति।