सम्प्रति देशे सर्वत्र दृश्यते यत्र वकफविधेयकविषये महती चर्चा जायमाना अस्ति। यत्र केन्द्रसर्वकारेण अपि शीतकालीनसत्रे विधेयकस्य प्रस्तावनायै सज्जता कृता इति कथ्यते परन्तु एनडीएयुते: तेलुगुदेशमपार्टी (टीडीपी) विधेयकस्य विषये भाजपायाः चिन्तां वर्धयितुं शक्नोति। टीडीपीदलस्य एकः दिग्गजनेता नवाबजन अमीरबाबूः एकस्मिन् कार्यक्रमे उक्तवान् यत्, 'वकफसंशोधनविधेयकं विफलं करणीयमस्ति।' एतस्य वक्तव्यस्य अनन्तरं चर्चा आरब्धा यत् अस्मिन् विषये भाजपदलस्य प्रतिक्रिया का भविष्यति?