Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रसर्वकारस्य राष्ट्रियशिक्षानीत्यां वर्णितस्य त्रिभाषासूत्रस्य क्रियान्वयनाय  तमिलनाडुराज्ये कोलाहलः वर्तते। प्रतिदिनं राज्ये हिन्दीविरुद्धं किञ्चित् वक्तव्यं आगच्छति। मुख्यमन्त्री स्टालिनः स्वयं हिन्दीविरोधि-आन्दोलनस्य नेतृत्वं कुर्वन् अस्ति। अधुना एव रुप्यकस्य देवनागरीचिह्नं अर्थसङ्कल्पत: निष्कास्य तस्य स्थाने तमिलवर्णमालायां तत् स्थापितम्। एतादृश्यां परिस्थितौ अधुना अस्मिन् विषये अभिनेतु: आन्ध्रप्रदेशस्य उपमुख्यमन्त्रिण: च पवनकल्याणस्य प्रतिक्रिया आगता। अस्मिन् विषये तमिलनाडुसर्वकारस्य वृत्तेः विषये सः प्रश्नं कृतवान् अस्ति। पवन कल्याणः तमिलनेतॄणाम् उपरि आक्षेपं कुर्वन् अवदत् यत्  'अहं न अवगच्छामि यत् केचन जनाः किमर्थं संस्कृतस्य आलोचनां कुर्वन्ति? राजनेतारः आर्थिकलाभार्थं स्वचलच्चित्रेषु हिन्दीभाषायां भाषान्तरमुद्रणं कर्तुं अनुमतिं ददति तर्हि हिन्दीभाषायाः विरोधं किमर्थं कुर्वन्ति? ते बालिवुडत: धनं याचन्ते, परन्तु हिन्दीभाषां स्वीकर्तुं मन: नास्ति, अयं कीदृशः तर्कः?...' इति। 

अद्यतनवार्ता

भारतम्

विश्वम्