डोनाल्ड ट्रम्पः राष्ट्रपतिपदस्य प्रत्याशिरूपेण स्वाधिकारित्वम् अधिकं सुदृढं कृतवान् अस्ति। सः आयोवा कॉकस दलगोष्ठ्यामपि शीर्षस्थानं प्राप्तवान् अस्ति। अस्यां भारतीयमूलस्य विवेकरामस्वामी निराशाम् अवाप्तवान्। तदनन्तरं सः अमेरिका-राष्ट्रपतिनिर्वाचनात् बहिरागत: अस्ति। न्यूयॉर्क-टाइम्स-पत्रिकायाः प्रतिवेदनानुसारं आयोवा कॉकस-निर्वाचने पराजयानन्तरं रामास्वामी स्वयमेव १६ जनवरी दिनाङ्के मङ्गलवासरे डोनाल्ड ट्रम्पाय स्वसमर्थनं घोषितवान्।