Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकादेशे निर्वाचनवातावरणे ट्रम्पस्य रिपब्लिकन्-पक्षस्य राष्ट्रपतिपदस्य पूर्वप्रत्याशी विवेकरामस्वामी वार्तासु प्रमुख: अस्ति। वस्तुत: १७ दिनाङ्के गुरुवासरे भारतीयमूलस्य विवेक रामास्वामी अमेरिकादेशस्य पेन्सिल्वेनियानगरस्य पेन् राज्यविश्वविद्यालये शतशः जनान् सम्बोधयन् आसीत्। सः स्वस्य पृष्ठभूमिं, महाविद्यालयजीवनं, राजनीतिविषये अनुभवं च उक्तवान्। अन्ते प्रश्नोत्तरसत्रे एकः अमेरिकन-छात्रः रामस्वामिनं धार्मिक-आस्थायाः विषये एकं तार्किकं प्रश्नं पृष्टवान्। तेनोक्तं - 'समग्रव्याख्यानकाले भवान् ईश्वरस्य विश्वासस्य च विषये घोराणि वचनानि उक्तवान्। अत्र अधिकांशजना: चिन्तयेयु: यत् भवान् एकमात्रस्य एकमात्रं सत्यस्य इशो: विषये वदति, परन्तु तत् उचितं न। भवान् हिन्दुधर्मम् अनुसरति, परन्तु भवता भाषणकाले तस्य विषये स्पष्टतया न कृता। भवान् परमेश्वरस्य विषये एवमुक्तवान् येन कोऽपि मन्यते यत् भवान् भगवत: इशो: य विषये कथयति। किमर्थमिदम् ? हिन्दुधर्मः दुष्टः, मूर्तिपूजकः धर्मः अस्ति, अतः अमेरिकनसंस्कृत्या सह सर्वथा असङ्गतः अस्ति।' भवता ईसाईधर्मस्य हिन्दुधर्मस्य च सिद्धान्तानां मूल्यानां च समानतां प्रतिपादयितुं प्रयत्नः कृतः। परन्तु वस्तुतः एकः एव परमेश्वर: इशु: अस्ति यः अस्मान् मोक्षं दातुं शक्नोति।” एतेन सभा स्तब्धा जाता। 

रामास्वामी उक्तवान् - 'अन्यदेशेषु मूलभूताः जनाः अमेरिकादेशम् आगत्य स्वनामानि ह्रस्वं कृत्वा क्रिस्तत्वस्य भ्रमम् उत्पन्नं कुर्वन्ति। विवेकस्य स्थाने विक् इति वदन् अपि अहं क्रिश्चियनः इति परिचयं कर्तुं शक्नोमि, परन्तु अहं न करोमि। कार्यक्रमे छात्रः यत् उक्तवान् तस्य भाव: आसीत् यत् रामास्वामी क्रिश्चियनः नास्ति इति कारणेन अमेरिकादेशस्य नेता भवितुम् न शक्नोति इति। तस्य प्रतिक्रियारूपेण रामस्वामी अमेरिकादेशस्य तृतीयस्य राष्ट्रपते: थोमस जेफरसनस्य उदाहरणं दत्त्वा अवदत् यत् जेफरसनः पारम्परिकः क्रिस्त: नास्ति, सः ईशो: पुनरुत्थानस्य सिद्धान्तान् न अङ्गीकृतवान्, परन्तु सः अमेरिकादेशस्य राष्ट्रपतित्वेन सफलतया कार्यं कृतवान्। देशस्य नेतृत्वं कर्तुं योग्यः अस्ति वा इति देशस्य संविधानं प्रति प्रतिबद्धतायाः आधारेण निर्धारितं भवति, न तु सः कस्मिन् धर्मे विश्वसिति इति।

विवेकरामास्वामी पूर्वमपि उक्तवान् आसीत् यत् अहं हिन्दुः अस्मि, तदर्थं गर्वितः अस्मि। मम किमपि भाषणं शृणुत, अहं हिन्दुः इति तथ्यं कदापि न गोपितवान्। अहं धार्मिकस्वतन्त्रतायाः पक्षधरः अस्मि। मम धार्मिक: विश्वासः एव मां राष्ट्रपतिप्रचारं प्रति प्रेरयति। यत्किमपि सत्कर्म वयं कुर्मः, तत् केवलं ईश्वरस्य आज्ञानुसारं कुर्मः। वयं भिन्न-भिन्न-प्रकारेण भिन्न-भिन्न-कार्यं कुर्मः, तथापि वयं सर्वे समानाः स्मः यतोहि ईश्वरः अस्माकं सर्वेषु निवसति। 

धैर्येण दत्तस्य उत्तरस्य सर्वेऽपि प्रेक्षका: प्रशंसां कृतवन्त: अपि च सञ्चारमाध्यमेषु तस्य चलचित्रं तीव्रगत्या प्रसारितमपि जातम्। एतेन सह तस्य अमेरिकनविद्यार्थिन: आलोचनां सर्वे आरब्धवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्