प्रधानमन्त्री नरेन्द्रमोदी रविवासरे गोधराघटनाविषये निर्मितस्य साबरमतीरिपोर्ट् इति चलच्चित्रस्य प्रशंसाम् अकरोत्। साबरमती रिपोर्ट् इति चलच्चित्रं १५ नवम्बर् दिनाङ्के चलच्चित्रगृहेषु प्रदर्शितम् जातम्। निर्मातृभिः तस्य निर्माणकाले आदरस्य, संवेदनशीलतायाः च महती सावधानी कृता अस्ति । रेलयाने यात्रिकाणां दहनस्य घटनायाः उपयोगेन केचन राजनेतारः कथं नेतु: प्रतिबिम्बं कलङ्कयन्ति इति चलच्चित्रे दर्शितम् ।