Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नरेन्द्रमोदी तृतीयवारं प्रधानमन्त्री भूत्वा प्रथमवारं वाराणसीयात्रायां प्रवृत: अस्ति। प्रधानमन्त्री 9.60 कोटि कृषकाणां कृते सम्माननिधिरूपेण तेषां लेखाषु २० सहस्रकोटिरूप्यकाणि स्थापितवान्। स: २७ निमेषान् यावत् भाषणं कृतवान्। तस्य ध्यानं कृषकाणां, महिलानां, विकासस्य, काश्याः च विषये आसीत्। स: अवदत् यत् निर्वाचनं जित्वा अहं प्रथमवारं वाराणसीम् आगतवान्। जनताजनार्दनं प्रति अस्माकं अभिवादनम्, काशीजनाः मां स्वप्रतिनिधित्वेन निर्वाचितवन्तः मह्यम् आशीर्वादं दत्तवन्तः। अधुना मात्रा गङ्गया अपि मां दत्तक: स्वीकृत:। अहम् अत्रैव अस्मि। अहं इच्छामि यत् विश्वस्य प्रत्येकस्मिन् गृहे भारतीयधान्यानि भोजनपीठिकायां भवन्तु।

अद्यतनवार्ता

भारतम्

विश्वम्