अमेरिकादेशेन अस्मिन् वर्षे दशलक्षभारतीयानां कृते प्रवेशपत्रप्रदानस्य घोषणा कृता अस्ति। लक्ष्यमिदं प्राप्तुं भारते अमेरिकादेशस्य दूतावासेन अधिकाः कर्मचारिणः नियोजिताः भविष्यन्ति। साक्षात्कारार्थम् अपि समयावधिः अपि वर्धितः अस्ति। अस्मिन् वर्षे अधुना यावत् दूतावासेन लक्ष्यद्वयस्य वीजा-आवेदनानां प्रक्रिया कृता अस्ति। दिल्लीनगरस्थस्य अमेरिकीदूतावासस्य एकः वरिष्ठः अधिकारी अवदत् यत् अस्मिन् वर्षे वयं १० लक्षं वीजा-आवेदनानां प्रक्रियां करिष्यामः। दूतावासेन एतदपि उक्तं यत् प्रवेशपत्राणां प्रतीक्षायाः अवधिः न्यूनीकृता अस्ति। गतजनवरीमासे प्रथमवारं वीजा-आवेदकानां कृते दूतावासेन शनिवासरे विशेषसाक्षात्कारस्थानानि आरब्धानि सन्ति। सम्प्रति भारते मुम्बई, चेन्नै, कोलकाता, हैदराबाद, नवीदिल्ली चेति नगरेषु दूतावासस्य कार्यालया: सन्ति । अपि च वीजानवीनीकरणाय ड्रॉप्-बॉक्स इति सुविधा अपि वर्धिता अस्ति ।