Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशे सम्प्रति कावडयात्रा प्रचलति। योगी-सर्वकारेण अस्याः यात्रायाः मार्गे स्थितेषु आपणेषु आपणस्वामिनां नाम लेखितुं आदेशः घोषितः। यस्य कारणात् राजनीतौ संघर्ष: उद्भूत: अस्ति। योगिन: अस्मिन् निर्णये अनेके नेतारः प्रश्नान् उत्थापितवन्तः। अधुना एनडीए-सङ्घस्य मित्रपक्षस्य नेता अस्य निर्णयस्य विरोधं कुर्वन्ति। पूर्वं केन्द्रीयमन्त्री चिरागपासवानः जदयूनेता केसी त्यागी च विरोधं कृतवन्तौ, अधुना केन्द्रीयमन्त्री तथा राष्ट्रीयलोकदलस्य अध्यक्षः जयन्तचौधरी अपि अस्मिन् विषये निरन्तरं योगीसर्वकारस्य विरोधं कुर्वन्नस्ति। रविवासरे (जुलाई-मासस्य २१ दिनाङ्के) सञ्चारमाध्यमेन सह वदन् जयन्तचौधरी योगी-आदेशस्य दृढतया आलोचनां कृतवान् यत् 'कावद् वहन्त:, तेषां सेवां कुरुतां जनानां परिचयः नास्ति अत: एषः विषयः राजनीत्या सह सम्बद्धः न भवेत्' इति। यदि सर्वे आपणस्वामिन: नाम स्थापयन्ति तर्हि बर्गर किङ्ग्, मैक्डोनाल्ड्स् च इत्यादय: च किं लेखिष्यन्ति?'

अद्यतनवार्ता

भारतम्

विश्वम्