केन्द्रीयविद्युत्प्रौद्योगिक्याः राज्यमन्त्री राजीवचन्द्रशेखरः ट्विट्टर् इति माध्यमेन देशस्य अनुचितमानचित्रप्रयोगविषये व्होट्सएप् लक्ष्यीकृत्य उक्तम् ये जनाः भारते व्यापारं कुर्वन्ति अथवा भारते व्यापारं निरन्तरं कर्तुम् इच्छन्ति भारतस्य उचितमानचित्रस्य प्रयोगं कुर्वन्तु इति इति ।
राजीवचन्द्रशेखरस्य ट्वीट् प्रति प्रतिक्रियारूपेण व्हाट्सएप् इत्यनेन उक्तं यत्, अप्रत्याशितदोषं सूचयितुं मन्त्रिणे धन्यवादः। क्षमायाचना, वयं शीघ्रमेव संशोधनं करिष्यामः। भविष्ये वयं तस्य पालनम् अपि करिष्यामः” इति ।