भारते सर्वकारीयसेवा प्रतिष्ठाया: सुरक्षाया: च विषयः अस्ति। कोटिश: छात्राः सर्वकारीयकार्यं प्राप्तुं प्रतियोगितापरीक्षायाः सज्जतां कुर्वन्ति, आवेदनं च कुर्वन्ति। परन्तु, कटुसत्यं तु अस्ति यत् कतिपयै: छात्रै: एव स्वलक्ष्यं प्राप्तुं सफलाः भवन्ति। अस्मिन् क्रमे अनेकेषां यूनां स्वप्नानां, बहुमूल्यसमयस्य, परिश्रमस्य च अपव्ययः भवति। विषयेऽस्मिन् केन्द्रीयराज्यमन्त्री जितेन्द्रसिंहः युवभि: अधुना अस्मिन् विषये मानसिकता त्यक्तव्या इति अवदत्।
लोकसभायां प्रश्नस्य उत्तरं यच्छन् सः अवदत् यत् २०२१-२२ वर्षे कोटिद्वयाधिकाः जनाः सर्वकारीयकार्यार्थं आवेदनं कृतवन्तः। एतेषु केवलं ३८,८५० जनाः एव सर्वकारीयकार्यं प्राप्तवन्तः, यत् आहत्य-आवेदनानां केवलं ०.२१ प्रतिशतं भवति।