Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयमन्त्री अश्विनीवैष्णवः अद्य मन्त्रिमण्डलसभायां गृहीतानाम् महत्त्वपूर्णनिर्णयानां विषये सूचनां दत्तवान्। सः अवदत्, मन्त्रिमण्डलेन तिस्र: मेट्रो परियोजना: अनुमोदिता: सन्ति। तदतिरिक्तं नूतनविमानस्थानकद्वयस्य निर्माणमपि अनुमोदितम् अस्ति । बेङ्गलूरु मेट्रोरेल् परियोजनायाः तृतीयचरणस्य अनुमोदनं प्राप्तम् अस्ति। मेट्रो-यानस्य अतिरिक्तं बाह्य-रङ्ग-मार्गः पश्चिमस्य अपि अनुमोदनं कृतम् अस्ति। सम्पूर्णपरियोजनायाः अन्तर्गतं २१ स्थानकानि निर्मितानि भविष्यन्ति।  महाराष्ट्रस्य मेट्रो परियोजनायाः अपि अनुमोदनं कृतम्। तेनोक्तं यत् यत्, द्वितीया अनुमोदिता  मेट्रोपरियोजना ठाणे इंटीग्रल मेट्रोरेलपरियोजना अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्