Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ब्रिटेनदेशे जुलैमासस्य ५ दिनाङ्के शुक्रवासरे सत्तापरिवर्तनं जातम्। सत्ताधारी कन्जर्वेटिवपक्षः १४ वर्षाणां अनन्तरं लेबरपक्षविरुद्धं निर्वाचने पराजितः । भारतीयमूलस्य ऋषिसुनकः प्रधानमन्त्रिपदात् त्यागपत्रं दत्तवान्। लेबरपक्षस्य ६१ वर्षीयः कीर स्टार्मर: देशस्य ५८तमः प्रधानमन्त्री अभवत्। सुनकः पराजयं स्वीकृत्य दलस्य क्षमायाचनां कृतवान् अस्ति। सः स्टार्मर इत्यस्मै अपि दूरवाण्या विजयस्य अभिनन्दनं दत्तवान्। आहत्य ६५० आसनेषु लेबरपक्षेण ४१२ आसनानि प्राप्तानि सन्ति। सर्वकारस्य निर्माणार्थं ३२६ आसनानि आवश्यकानि सन्ति। अपरपक्षे कन्जर्वटिव-दलस्य सदस्याः १२० आसनानि एव प्राप्तवन्त:। विगत २०० वर्षेषु कन्जर्वेटिव-पक्षस्य अयं बृहत्तम: पराजयः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्