महाराष्ट्रे मराठासमुदायस्य कृते आरक्षणस्य कृते जायमाने आन्दोलने कनाड(औरंगाबाद) इत्यस्य शिवसेनायाः विधायकेन हर्षवर्धनजाधवेन स्वत्यागपत्रं विधानसभाध्यक्षाय ईमेलमाध्यमेन प्रेषितम्। एतत् अतिरिच्य एनसीपी वैजापुरस्य एनसीपीविधायकेन भाऊसाहेबपाटिलचिकटगावकरेणापि त्यागपत्रं विधानसभाध्यक्षाय प्रेषितमस्ति।