कांग्रेस-उपाध्यक्षस्य राहुलगान्धिन: हास्यास्पद-ट्वीट-सन्देशस्य प्रत्युत्तरे भारतीय-जनता-पक्षेण अङ्कुश: कर्षित: अस्ति| विगतदिवसेषु राहुल: ट्वीट-संदेशद्वारा प्रख्यात: जात: अस्ति अत: चर्चा उत्पन्ना यत् एते सन्देशा: राहुलस्य कृते क: लिखति? तदर्थं राहुलेन पुन: संदेश: प्रसारित: यत्र स: कुक्कुरस्य चलच्छित्रमाध्यमेन स्व-संदेशं ददाति| एतस्य प्रत्युत्तररूपेण बी.जे.पी.-आईटी-सेल-मुख्येन अमितमालवीयेन ट्वीट-संदेश: प्रसारित: यत्र लिखित: अस्ति "पी.डी. आनयत कांग्रेसपक्षं रक्षत|"