केरलस्य तिरुवनन्तपुरस्य समीपे केचन जनाः महात्मागान्धिनः प्रपौत्रस्य तुषारगान्धिनः मार्गम् अवरुद्धवन्त:। राष्ट्रियस्वयंसेवकसङ्घस्य विरुद्धं कथितं वक्तव्यं पुन: स्वीकर्तुं तेषाम् आग्रह: आसीत्। तुषारगान्धी स्वर्गीयस्य पी गोपीनाथन नायरस्य प्रतिमायाः अनावरणार्थं गतः आसीत्। स्वभाषणे तेनोक्तमासीत् राष्ट्रस्य आत्मा कर्करोगेण ग्रस्त: अस्ति, संघपरिवारः तस्य प्रसारं करोति इति।