अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः ब्रिक्सदेशेभ्यः अत्यन्तं दुःखितः इति ज्ञायते। ब्रिक्सदेशाः स्वकीयं मुद्रां प्रवर्तयिष्यन्ति इति चिरकालात् समाचाराः प्राप्यन्ते। परन्तु अधुना ट्रम्प् अस्मिन् विषये ब्रिक्सदेशेभ्यः भ्रर्त्सनं दत्तवान् अस्ति। स: अवदत् यत् अमेरिका इच्छति यत् ब्रिक्सदेशाः अवगच्छन्तु यत् सः अमेरिकी-डॉलरमुद्राया: स्थानं स्वीकर्तुं न शक्नुवन्ति। यदि तत् भवति तर्हि ब्रिक्सदेशाः शतप्रतिशतम् शुल्कं दातुं सज्जाः भवेयुः। ट्रम्पः सामाजिकमाध्यममञ्चे Truth इत्यत्र अवदत् यत् BRICS देशाः अमेरिकन-डॉलरमुद्राया: वर्चस्वं न्यूनं कर्तुं प्रयतन्ते, वयं च नाटकं पश्याम: परन्तु एतत् इतः परं कार्यं न करिष्यति। अहं नाटकं द्रष्टुम् न इच्छामि।