Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य (जुलाई १४) अपराह्णे १:२८ वादने ओडिशानगरस्य पुरीनगरस्य जगन्नाथमन्दिरस्य कोषः उद्घाटितः। ओडिशा-मुख्यमन्त्रीकार्यालयेन एतस्य पुष्टिः कृता अस्ति। अधिकारिणां मतेन रत्नभण्डारे उपस्थितानां बहुमूल्यवस्तूनाम् डिजिटलसूचीकरणं सर्वकारः करिष्यति, यस्मिन् तेषां भारः निर्माणं च इत्यादीनि विवरणानि भविष्यन्ति। भारतीय पुरातत्वसर्वेक्षणस्य अधीक्षकः डी.बी.गडनायकः उक्तवान् यत् अभियन्तार: संशोधनकार्यार्थं रत्ननिक्षेपस्य सर्वेक्षणं करिष्यन्ति। मन्दिरस्य कोषः अन्तिमवारं ४६ वर्षपूर्वं १९७८ तमे वर्षे आधिकारिकतया उद्घाटितः। आन्तरिकबाह्यरत्नभण्डारयोः नूतनानि तालकानि स्थापितानि सन्ति। अधुना भगवत: जगन्नाथस्य बहुडायात्राया: अनन्तरं आन्तरिकभण्डारः उद्घाटितः भविष्यति। तदनन्तरं तत्रत्यानि वस्तूनि स्थानान्तरितानि भविष्यन्ति। पूर्वं रत्नभण्डारे सर्पाः सन्ति इति जनवार्ता: प्रचलन्ति स्म। रत्नभण्डारस्य उद्घाटनानन्तरं संचारमाध्यमेषु उक्तं यत् यदा समितिसदस्याः पुनः आगतवन्तः तदा ते अवदन् यत् निधे: अन्तः सर्पः नास्ति इति। यद्यपि अस्य कृते दल: पूर्वमेव सज्जीकृत: आसीत्। 

चित्रम् - (सिकताकला) सुदर्शनपटनायक:

अद्यतनवार्ता

भारतम्

विश्वम्