एकया अमेरिकास्थया शोधपत्रिकया प्रतिपादनं कृतमस्ति यत् वैदिकमन्त्राणां स्मरणात् मस्तिष्कस्य तस्मिन् भागे वृद्धिः भवति यत्र संज्ञानग्रहणं भवति। डॉ. जेम्स हार्टजेल-नामकेन तन्त्रिकाविज्ञानिकेन संशोधनमिदं ’साइन्टिफिक अमेरिकन’ नामिकायां पत्रिकायां प्रकाशितम्। अनेन वैज्ञानिकेन संशोधनस्यानन्तरं ’संस्कृति-इफेक्ट’ इति नाम्ना पदं रचितमस्ति। स्वस्य संशोधने सः लिखति यत् भारतीयमान्यतानुसारं वैदिकमन्त्राणां सततं उच्चारणेन कण्ठस्थीकरणप्रयासेन च स्मरणशक्तिः वर्धते। एतस्याः धारणायाः परीक्षणाय डॉ.जेम्स अपि च ट्रेन्टो-विश्वविद्यालयस्य तस्य सहायकः, भारतस्थस्य ’नेशनल-ब्रेन-रिसर्च-सेन्टर’ इत्यस्य डॉ.तन्मयनाथः डॉ.नन्दिनीचेटर्जी च मिलित्वा संशोधनगणं निर्मितवन्तः।
’द हिन्दू’ इत्यत्र प्रकाशितवार्तानुसारं एतेन गणेन ४२ स्वयंसेवकानां चयनं कृतम्। एतेषु २१ प्रशिक्षितवैदिकपण्डिताः आसन् यैः सप्त वर्षाणि यावत् यजुर्वेदस्य मन्त्रोच्चारणे प्रावीण्यमासीत्। अन्ये एकविंशतिः महाविद्यालयस्य छात्राः आसन्। एतेषां द्विचत्वारिंशत् स्वयंसेवकानां ’ब्रेन-मेपिंग’ इति आधुनिकसंशोधनपद्धत्या मस्तिष्कस्य विभिन्नभागानां गात्रस्य विवरणं संगृहीतम्। संशोधनानन्तरं ज्ञातं यत् द्वयोः गणयोः मस्तिष्कभागानां गात्रेषु अधिकः भेदः अस्ति। संस्कृतपण्डितानां मस्तिष्कस्य सः भागः अधिकः विकसितः बृहत् चासीत् यत्र स्मरणशक्ति-निर्णयशक्ति-भावनादिनां कार्यं भवति। दीर्घकालं यावत् ये छात्राः संस्कृतमन्त्राणाम् उच्चारणं कुर्वन्ति ते संस्कृतप्रशिक्षितछात्रेषु स्मरणशक्ति-अनुभूतिक्षमता-निर्णयक्षमता अधिका प्रबला भवति।
वार्ता इयं भारतीयानां कृते गौरवप्रदायिनी अस्ति परन्तु पाश्चात्यजगतः अन्धानुकरणं कुर्वन्तः भारतीयाः अस्माकं सम्पूर्णवैज्ञानिक-संस्कृतभाषायाः उपेक्षां कुर्वन्ति। संस्कृतमन्त्रोच्चारणेषु हीनतामनुभवन्ति। पाश्चात्यजगति संस्कृतं प्रति सम्माननं वर्धितमस्ति परन्तु भारते केचन जनाः ’असतो मा सद्गमय...’ इति वेदप्रार्थनां साम्प्रदायिकत्वेन कल्पयन्ति इति दुःखस्य विषयः।