ज्योतिषपीठाधीश्वर: जगद्गुरु: शङ्कराचार्य: अविमुक्तेश्वरानन्दमहाराज: विगत नवदिवसेभ्य: मेरठे अस्ति। मठसम्बद्धस्य महादेवमन्दिरस्य अभिषेकार्थम् आगतः शंकराचार्यः ज्ञानवापी-श्रीकृष्णजन्मभूमिमन्दिरनिर्माणसम्बद्धे सर्वकारनीतिषु कटाक्षं कृतवान्। शङ्कराचार्य: अविमुक्तेश्वरानन्दमहाराजः अवदत् यत् यदि देशे गोवधः स्थगितः भवति तर्हि श्रीकृष्णस्य जन्मस्थले एकस्मिन् दिने मन्दिरस्य निर्माणं भविष्यति। तेनोक्तं यत् भगवान् श्रीकृष्णः गोसेवायै पृथिव्यामस्याम् आगतः, परन्तु अद्य किं भवति? गावः हन्यन्ते, पशवः विक्रीयन्ते। गोवधकारिणां कृते कृष्णजन्मभूमि: किमर्थं दातव्या? गोवधप्रश्ने तूष्णीं स्थितेभ्य: कृष्णस्य जन्मभूमिः किमर्थं दीयते? यदि कृष्णस्य नेत्रै: सह स्वनेत्राणि मेलयितुम् इच्छन्ति तर्हि गोवध: निवारणीय:। ज्ञानवाप्यां सर्वोच्चन्यायालयस्य आदेशस्य विपरीतम् जिलाप्रशासनेन मन्दिरं जालपुटेन आच्छादितम्, सर्वोच्चन्यायालयेन तु डीयू-संरक्षणस्य आदेशः दत्तः आसीत्। वाराणसीजनपदप्रशासनं सर्वोच्चन्यायालयस्य आदेशस्य अवज्ञां कुर्वत् अस्ति।