Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

वस्तुतः भारतीयदलेन सोमवासरे एव बार्बाडोसत: न्यूयॉर्कनगरं प्रति गन्तव्यमासीत् परन्तु चक्रवात्कारणात् तत् शक्यं नाभवत्। तदनन्तरं गुरुवासरे प्रातः ६ वादने भारतीयक्रीडकान्, सहायककर्मचारिणः च वहत् विशेषविमानं नवीनदिल्लीनगरस्य इन्दिरागान्धी-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तम्। अनेन विशेषविमानयानेन मीडियाकर्मिण: अपि स्वदेशम् आगतवन्त:। इन्दिरागान्धी-अन्ताराष्ट्रीयविमानस्थानके भारतीयक्रीडकानां सहायककर्मचारिणां च भव्यं स्वागतं जातम्। अस्मिन् काले प्रशंसकानां विशालः समूहः उपस्थित: आसीत्। भारतीयक्रीडकाः विमानस्थानकात् आई.टी.सी.मौर्य-विश्रामगृहं प्राप्तवन्तः। तदनन्तरं भारतीयक्रीडकैः सह सम्बद्धाः जनाः, सहायककर्मचारिणः च प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलितवन्तः। अत्र भारतीयक्रीडकानां परिवारस्य अपि उपस्थिति: आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्