Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

फाल्गुनमासस्य पूर्णिमायां प्रतिवर्षं होलिकादहनपर्व महता उत्साहेन आचर्यते। अयं उत्सवः वर्णानां, प्रेम्णः, भ्रातृत्वस्य च उत्सवः अस्ति। अस्मिन् दिने जनाः प्रेम्णा परस्परं पुष्पै:, वर्णै: जलेन च क्रीडन्ति। परन्तु केचन अस्मिन् दिने मद्य-मादक-द्रव्याणि अपि सेवन्ते, पश्चात् समाजस्य वातावरणं दूषितं भवति। केचन जनाः अस्मिन् दिने परस्परं मुखयोः कृष्णमसीम् अपि योजयित्वा प्रणाले क्षिपन्ति। विषये‍ऽस्मिन् प्रेमानन्दमहाराज: अवदत् यत् एतादृशा: जना: हिरण्यकश्यपजातीया: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्