Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राजस्थानस्य अजमेरनगरे स्थितस्य ख्वाजा-मोइनुद्दीन-चिश्ती इत्यस्य दरगाहस्थानस्य विषये विवादः उत्पन्नः अस्ति। हिन्दुसेना-राष्ट्रीय-अध्यक्षेन विष्णुगुप्तेन प्रस्तुतायां याचिकायां प्रतिपादितं यत् पूर्वं दरगाहस्थले संकटमोचन-महादेवस्य मन्दिरम् आसीत्। एषा याचिका अजमेरनागरिकन्यायालयेन स्वीकृता अस्ति, तदनन्तरं अस्मिन् विषये वादविवादः तीव्रः अभवत्। न्यायालयेन अल्पसंख्यकमन्त्रालयाय, दरगाहसमित्यै, पुरातत्वविभागाय च सूचना: दत्वा तेषां प्रतिक्रिया: याचिता:। याचिकायां एकस्य विशेषस्य पुस्तकस्य उद्धरणं कृतम् अस्ति, यस्य नाम "अजमेर हिस्टोरिकल एंड डिस्क्रिप्टिव" इति । १९११ तमे वर्षे सेवानिवृत्तेन न्यायाधीशेन हरबिलास शारदा इत्यनेन लिखितम्। अस्मिन् ग्रन्थे उक्तं यत् अद्यत्वे यत्र दरगाहः अस्ति तत्र पूर्वं संकटमोचनमहादेवस्य मन्दिरे ब्राह्मणदम्पती पूजां कुरुत: स्म। याचिकायां उक्तं यत् दरगाहपरिसरे दृश्यमानानि द्वाराणि अन्यसंरचना: च मन्दिरस्य वास्तुकलानां स्पष्टानि प्रमाणानि सन्ति। तदर्थं तर्क: अपि दत्त: अस्ति यत् 

१) उन्नतद्वाराणां तक्षणकलाया: उत्कीर्णसंरचना हिन्दुमन्दिरशैल्याः अस्ति।

२) कलशाकारस्य शिकरस्य संरचना पुरातनमन्दिरस्य अवशेषेषु वर्तमानभवनं निर्मितम् इति सूचयति

३) शिवमन्दिरस्य समीपे जलस्य स्रोतः अथवा धारा भवति। अत्रापि समीपे जलस्य स्रोतः वर्तते।

हरबिलास शारदा इत्यस्य पुस्तकस्य उल्लेखं कृत्वा याचिकाकर्ता अवदत् यत् "पूर्वम् अत्र महादेवस्य चन्दनेन तिलकं  जलाभिषेक: च भवति स्म" इति।

अद्यतनवार्ता

भारतम्

विश्वम्