Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बिहारे दुर्गायाः मूर्तिपूजायाः समये असामाजिकतत्त्वैः शोभायात्रायां शिलापातः कृतः। सीतामढ़ीमण्डलस्य बेलसन्डनगरे प्रतिमायाः विसर्जनाय शोभायात्रायां बहवः जनाः शिलापातं कृतवन्तः। बेलसन्डचतुष्पथत: दुर्गायाः प्रतिमां विसर्जयितुं पञ्जीकरणकार्यालयं प्रति गच्छन्ती एषा यात्रा मनुष्मारा नदीघाटात् प्रचलति स्म, तदा सहसा एकस्मात् दलात् बृहत्प्रमाणेन पाषाणप्रहारः आरब्धः अनेन अराजकता उत्पन्ना यस्मिन् आरक्षकसहिताः १२तः अधिकाः जनाः आहता:। न केवलं पाषाणप्रहार:, असामाजिकतत्त्वै: आपणेषु अग्नि: प्रज्वालित:। प्रशासनेन तत्क्षणम् कार्यं कृत्वा अग्निः नियन्त्रणे कृतः।

अद्यतनवार्ता

भारतम्

विश्वम्