Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पश्चिमबङ्गस्य भाजप-विधायकः विपक्षनेता च सुभेन्दु अधिकारी बुधवासरे (जुलाई १७), 'सबका साथ, सबका विकास' इति, परन्तु अधुना वयं एतत् न वदिष्याम:। अधुना वयं वदिष्याम: 'ये अस्माभिः सह, वयं तै: सह...' सबका साथ, सबका विकासः इति त्यजन्तु। दलस्य राज्यकार्यकारीसभायां शुभेन्दुः अवदत् यत्, 'पक्षस्य अल्पसंख्यकमोर्चा इत्यस्यापि आवश्यकता नास्ति।' वयं विजयं प्राप्स्याम:, हिन्दूनां रक्षणं करिष्यामः, संविधानं च। 

वक्तव्यस्य अनन्तरं स्पष्टीकरणं दत्त्वा सः अवदत् यत् मम वचनस्य दुर्व्याख्या क्रियते। यदा अहं स्वक्षेत्रं गच्छामि तदा हिन्दुभ्य: मुस्लिमजनेभ्य: च सर्वेभ्य: विकासयोजनानां लाभः दीयते, परन्तु तदा अपि भाजप 'हिन्दुपक्षः' इति कथ्यते। समाचारसंस्थया एएनआई इत्यनया सह वार्तालापं कुर्वन् शुभेन्दु-अधिकारिणा उक्तं यत् वयं सर्वेषां जनानां कृते कार्यं कुर्मः। अस्माकं सर्वकारेण कृताः सर्वाः योजनाः सर्वेषां कृते एव सन्ति। मया यत् व्यक्तं तत् मम व्यक्तिगतं दृष्टिकोणम् अस्ति। एतेन सर्वकारस्य कोऽपि सम्बन्धः नास्ति।

एतदपि सर्वविदितमस्ति यत् दले अहर्नीशं कार्यं कुर्वन्त: कार्यकर्तार: स्वगृहे सुरक्षिता: न सन्ति। तेषामुपरि आक्रमणं सततं भवति। नैके कार्यकर्तार: सपरिवारं कार्यालये शरणं स्वीकृतवन्त:।

 

अद्यतनवार्ता

भारतम्

विश्वम्