Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य हाथरसनगरे भोलेबाबा इत्यस्य सत्सङ्गकार्यक्रमे निस्तारे अव्यवस्था जाता यस्मिन् १२२ जनाः मृताः। १५०तः अधिकाः भक्ताः आहता: अभवन्। अनेकेषां स्थितिः गम्भीरा अस्ति। मृतानां संख्या वर्धयितुं शक्नोति। भोले बाबा इत्यस्य वास्तविकं नाम नारायण हरिः अस्ति। सः एटानानगरस्य निवासी अस्ति। नारायण हरिः प्रायः २५ वर्षेभ्य: सत्सङ्गं कुर्वन् अस्ति। तस्य पश्चिम-उत्तरप्रदेशं विहाय राजस्थान-हरियाणाराज्ययो: अपि अनुयायिनः सन्ति। मङ्गलवासरे प्रायः ५० सहस्राजनाः आगताः आसन्। व्यवस्था नासीत्, यया एषा दुःखदघटना अभवत्। प्राप्तप्रतिवेदनानुसारं सत्सङस्य समाप्तेः अनन्तरं सहसा जनसमूहः बहिः आगन्तुं आरब्धवान्। तत्र महान् जनसमूहः आसीत् इति कारणेन गमनागमने अव्यवस्था जाता अभवत्। एतेन अधिकांशानां मृत्यु: श्वासरोधनेन अभवत्। अपि च यदा भोलेबाबा इत्यस्य गण: सत्सङ्गस्य समाप्तेः अनन्तरं प्रस्थितवान् तदा सुरक्षाकर्मचारिणः जनसमूहं निवारितवन्तः। दलस्य गमनानन्तरं सहसा जनसमूहः मुक्तः अभवत्। यस्य कारणात् अव्यवस्था अभवत्। 

*हृदयद्रावाक्नि चित्राणि अत्र न स्थापितानि।

अद्यतनवार्ता

भारतम्

विश्वम्