Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रयागराजस्य संगमतटे रात्रौ प्रायः सार्धदशवादने जनाप्लावकारणात् अत्र-तत्र धावनमारब्धम्। अस्यां दुर्घटनायां १० तः अधिकाः जनाः मृताः इति आशङ्का वर्तते। ५० तः अधिकाः भक्ताः आहता: सन्ति। 

अत्र दुर्घटनायाः १० घण्टानां अनन्तरम् अपि मृतानां घातितानां वा संख्यायाः विषये प्रशासनेन किमपि सूचना न दत्ता। प्रधानमन्त्री मोदी मृतानां परिवारेभ्यः शोकं प्रकटितवान्। मुख्यमन्त्री योगी आदित्यनाथ: भक्तेभ्य: संयमं स्थापयितुम् आह्वानं दत्तवान्। सः अवदत् यत् भक्ताः केवलं संगमे स्नानं कर्तुं न चिन्तयेयुः। गङ्गा सर्वत्र पवित्रा, गङ्गातटे स्नातुमर्हन्ति यत्र यत्र अस्ति। अमृतस्नानस्य कारणेन अधिकांशः पोण्टूनसेतुः पीहित: आसीत्। एतेन संगमे कोटि-कोटिजनसमूहः समागन्तुम् आरब्धवान्। एतस्मात् कारणात् केचन जनाः अवरोधकेषु अटन्तः पतिताः। एतत् दृष्ट्वा जनप्रवाद: प्रसृत:।

दुर्घटनायाः अनन्तरं एनएसजी-कमाण्डो संगम-तटेषु कार्यभारं स्वीकृतवन्तः। संगमनोज् क्षेत्रे सामान्यजनानाम् प्रवेशः प्रतिबन्धितः अस्ति। जनसमूहः अधिकं न वर्धते तदर्थं प्रयागराजस्य समीपस्थेषु जनपदेषु भक्ता: अवरोधिता: सन्ति। तत्र प्रशासनं सचेष्टितम् अस्ति। अद्य महाकुम्भे मौनी अमावस्या: स्नानम् अस्ति, अत: नगरे प्रायः ९ कोटि भक्ताः उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति। प्रशासनस्य अनुसारम् अद्य रात्रौ यावत् संगमसहितेषु ४४ घाटेषु ८ तः १० कोटिपर्यन्तं भक्ताः पवित्रस्नानं करिष्यन्ति इति अपेक्षा अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्