Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य प्रधानमन्त्री नरेन्द्रमोदी लोकसभायां राष्ट्रपति-अभिभाषणस्य धन्यवादप्रस्तावस्य विषये चर्चाया: प्रतिक्रियां दत्तवान्, परन्तु विपक्षः निरन्तरं कोलाहलं जनयति स्म।' अत्याचारः न स्थास्यति', 'मणिपुर-मणिपुर', 'न्याय-न्याय' इति उद्घोषा: विपक्षसदस्यै: कृता:। एतस्मिन् समये प्रधानमन्त्रिणा द्विवारं स्वस्य भाषणं स्थगितव्यम् आसीत्। सभापतिः द्विवारं विपक्षं तत् न कर्तुं उपदेशं दत्तवान्। सभापतिः ओम बिरला अवदत्, एतत् सम्यक् नास्ति, परन्तु विपक्षस्य सांसदाः श्रोतुं सज्जाः न आसन्। विकासाय स्वप्रतिबद्धतां प्रकटयन् पीएम मोदी अवदत् यत् प्रत्येकं गृहं प्रति जलं प्रदातुं अस्माकं संकल्पः अस्ति। एतत् युगं हरितयुगम् अस्ति। वैश्विकतापविरुद्धं युद्धं कुर्वते विश्वाय बलं प्रदातुं भारतेन उत्तरदायित्वं स्वीकृतम्। एकविंशतिशतकं भारतस्य शतकं कर्तुं वयं येषु संकल्पेषु गृहीताः तेषु आधारभूतसंरचनानां महती भूमिका अस्ति। अस्माभिः विश्वस्य आधारभूतसंरचनायाः निर्माणं कर्तव्यम् अस्ति। देशे बृहत्प्रमाणेन वृत्ते: उद्योगानां च अवसराः सृज्यन्ते, तेषां विस्तारः करणीयः, नूतनं रूपं च दातव्यम्।

अद्यतनवार्ता

भारतम्

विश्वम्