काङ्ग्रेसनेता मणिशंकर अय्यरस्य पुत्री सुरन्या अय्यर राममन्दिरस्य निर्माणस्य विरुद्धं त्रिदिवसीयं उपवासं कृत्वा सनातनधर्मस्य विरुद्धं प्रसारमाध्यमेषु निन्दां प्रकाशितवती। अस्य कारणात् तस्य जङ्गपुरा-स्थितस्य समाजस्य आरडब्ल्यूए-द्वारा तस्या: वक्तव्यस्य कृते सार्वजनिकरूपेण क्षमायाचनां कर्तुं उक्तं, यदि सा तथा कर्तुं न शक्नोति तर्हि वसतिं त्यक्त्वा अन्यत्र गन्तुं उक्तमासीत्।