कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया अद्य कोंग्रेस-सभायां स्वस्य क्रोधनियन्त्रणं त्यक्त्वा पुलिस-अधिकारिणं चपेटिकां मारयितुं प्रयतितवान् इति कथ्यते। बेल्गामनगरे अस्याः सभायाः समये मुख्यमन्त्री तदा क्रुद्धः अभवत् यदा भाजपाकार्यकर्तारः कृष्णध्वजान् दर्शयित्वा विरोधं कुर्वन्ति स्म। एतेन मुख्यमन्त्री मञ्चे एव अपरपुलिसअधीक्षकं (एएसपी) आहूय तर्जितवान्। कोपपूर्वकं प्रश्नं कृतवान् यत् सभास्थलस्य अन्तः विरोधं कर्तुं, कृष्णध्वजान् दर्शयितुं च कथं अनुमतिः दत्ता इति। अस्मिन् विषये नेतार: अप्रसन्नतां प्रकटयन्त: अवदन् यत् मन्त्रिण: कार्यकाल: ५ वर्षाणां परन्तु सर्वकारीयाधिकारिण: आयो: ६० वर्षाणि पर्यन्तं कार्यरता: भवन्ति। व्यवहार: अयम् अयोग्य: तदपि मुख्यमन्त्रिण: एतादृश: व्यवहार:कदापि न शोभते।