महाकुम्भमेलायां सनातनवेदिका हिन्दुधर्मसंसद् सम्पन्ना यस्मिन् प्रथमवारं देशस्य त्रयाणां मठानां जगद्गुरुशङ्कराचार्या: एकस्मिन् मञ्चे दृष्टा:। ते एकस्मिन् मञ्चे समागत्य सनातनधर्मस्य विषये २७ आदेशान् आदिष्टवन्त:। देशस्य एकतायाः, अखण्डतायाः, सामाजिकसौहार्दस्य, शाश्वतसंस्कृतेः च रक्षणस्य आह्वानं कृतवन्तः। द्वारकानगर्या: शारदामठस्य जगद्गुरु: शङ्कराचार्य; स्वामिसदानन्दसरस्वतीजी, ज्योतिर्पीठस्य शङ्कराचार्य: स्वामी अविमुक्तेश्वरानन्दसरस्वतीजी महाराज:, श्रींङ्गेरीमठस्य जगद्गुरु: शङ्कराचार्य: स्वामिविधुशेखरभारतीजी च महाकुम्भमेलायां आयोजितायां सनातनवेदिका-हिन्दूधर्म-संसदि भागं स्वीकृतवन्त:। अस्मिन् अवसरे शङ्कराचार्यस्वामी सदानन्दः संस्कृतभाषाया: उपरि बलं दत्तवान्। ज्योतिर्पीठस्य शङ्कराचार्य: स्वामी अविमुक्तेश्वरानन्दः संस्कृतभाषायाः कृते निश्चितधनभागस्य आग्रहं कृतवान्। धर्मादेशे परिवारस्य संस्थायाः च रक्षणार्थं च परस्परमेलनस्य आह्वानमपि जातम्। हिन्दूनां मौलिकाधिकारेषु धार्मिकशिक्षां समावेशयितुं अपि आह्वानं कृतवान्।