Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्थस्य संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसम्बर्धन-केन्द्रस्य तत्त्वावधाने आयोजिते संस्कृतसप्ताहसमारोहे प्रातः एकादशवादनात् विश्वविद्यालयस्य प्रमुखद्वारतः संस्कृतजैनसूरिमहाविद्यालयं यावत् विश्वविद्यालयस्य माननीयाः कुलगुरवः, माननीयाः कुलसचिवः तथा सर्वेऽध्यापकाः छात्राः कर्मचारिणश्च सोत्साहं संस्कृतोद्घोघपूर्वकं शोभायात्रायां सम्मिलिता अभवन्। संस्कृतस्य प्रचारार्थं विश्वविद्यालयस्य पुस्तिकाः नागरिकेषु वितरिताः, संस्कृतसप्ताहस्य शुभकामनाश्च प्रेषिताः।

तदनन्तरं संस्कृतसप्ताहस्य उद्घाटनसत्रे विश्वविद्यालयस्य आदर्शवाक्यस्य 'संस्कृतं नाम दैवी वाक्' इति विषयाधारितव्याख्यानस्य आयोजनं माननीयकुलगुरूणामध्यक्षतायां 16 अगस्त, 2024 दिनाङ्के सायं 03:00 वादने आवासीयपटलमाध्यमेन सुसम्पन्नम्। यस्मिन् मुख्यवक्तृत्वेन राष्ट्रियसंस्कृत-विश्वविद्यालयस्य पूर्वकुलपतिः प्राध्यापकः डॉ. हरेकृष्णशतपथी वेदपुराणगीतोपनिषदादिभ्यः विस्तरेण अस्य विषयस्य व्याख्यानं कृतवान्। उक्तं च तेन यावत् देवभाषा जनानां भाषा न भवति तावता सार्थकता नास्ति। श्रीमद्भगवद्गीतास्थिते दैवसुरसम्पदविभागयोगे वर्णितसप्तदशदिव्यगुणान् विममर्श। अहिंसा न केवलं शरीरेण अपितु वाचा मनसा अपि अनुसरणीया इति अहिंसाया अर्थमपि स्पष्टीचकार। ध्येयवाक्यस्य स्पष्टीकरणाय भागवतस्य माहात्म्यस्य मङ्गलाचरणस्य च श्लोकाः उद्धृताः। व्याकरणविभागस्य विभागाध्यक्षः तथा कार्यक्रमस्य संयोजकः डॉ. अखिलेशकुमारद्विवेदीमहोदयेन अतिथीनां तथा अभ्यागतानां वाचिकस्वागतं व्याहृतम्। कार्यक्रमस्य सहसंयोजकः डॉ. दिनेशचौबेमहोदयेन कार्यक्रमः सफलतया सञ्चालितः। शिक्षाशास्त्रविभागीयाचार्यः डॉ. विश्वामित्ररायमहोदयः कार्यक्रमे धन्यवादम् अज्ञापयत्

वार्ताहर: -  डॉ.दिनेश चौबे उज्जयिनी 

अद्यतनवार्ता

भारतम्

विश्वम्