समग्रे विश्वे वैज्ञानिकभाषारूपेण संस्कृतभाषायाः महत्त्वं वर्धमानमस्ति परन्तु भारते संस्कृतपठनं संस्कृतप्रार्थना च केषाञ्चन जनानां कृते साम्प्रदायिकमस्ति। यतो हि संस्कृतप्रेमिणः भारते संस्कृतसंवर्धनाय कटिबद्धाः सन्ति। एतस्मिन् कार्ये गुजरातविश्वविद्यालयेन पुरस्सरणं कृतमस्ति। गुजरातविश्वविद्यालस्य संस्कृतविभागेन संस्कृतसम्भाषणकेन्द्रस्य आरम्भः करिष्यते। एतस्मिन् केन्द्रे संस्कृतम् अवगन्तुं वक्तुं सम्भाषणं च कर्तुं पाठयिष्यते। एतस्य केन्द्रस्यारम्भः फरवरीमासस्य दशमदिनाङ्के भविष्यति। कार्यक्रमस्यास्य शुभारम्भं गृहमन्त्री राजनाथसिंहः करिष्यति।
केन्द्रस्यास्य संयोजकेन डॉ.अतुल-उनागरेणोक्तं यत् एतस्मिन् केन्द्रे संस्कृतसम्भाषणस्य अभ्यासः विविधाभिः पद्धतिभिः भविष्यति। तदर्थं शतं घण्टानां पाठ्यक्रमः निर्मितः अस्ति। नैके जनाः एतस्मिन् कार्यक्रमे भागं स्वीकुर्युः तदर्थं शनिवासरे सायं रविवासरे प्रभाते च कक्षाः भविष्यन्ति। एतस्मिन् अभ्यासक्रमे वयसः मर्यादा नास्ति। यः कोऽपि जनः एतस्य वर्गस्य लाभं स्वीकर्तुं शक्नोति।
’सम्भाषणतः शास्त्रपर्यन्तं’ इति एतादृशानां वर्गाणां मुख्यं लक्ष्यमस्ति येन वेद-वेदाङ्ग-शास्त्रेषु निहितं विज्ञानं तत्त्वज्ञानं नैतिकता इत्यादिकं लोकभोग्यं भवेत्। नासा इति विज्ञानसंस्थायाः अधिकारिणः संस्कृतं पठन्ति। विदेशेषु नैकेषु विद्यालयेषु महाविद्यालयेषु वैदेशिकाः संस्कृतं पठन्ति तर्हि भारते किमर्थं संस्कृतं पठितुं व्यवस्था न भवेत् !