चित्रे दृश्यमानः जनः प्रथमदृष्ट्या ओऽपि निर्धनः भासते परन्तु एतेन महापुरुषेण स्वस्य अतिसामान्यजीवनद्वारा सर्वान् आकर्षितवान् अस्ति। चतुःषष्टिवर्षीयः जनः एषः प्रतापचन्द्रसारंगी मोदिमन्त्रिमण्डले राज्यमन्त्रीरूपेण उद्घोषितः । शपथविधौ अपि तस्य नाम्नः उद्घोषणानन्त्तरं सर्वैः करतालेन स्वागतं कृतं तस्य । ओडिशाराज्यस्य ’फकीर’ नेता रुपेण सः सुप्रख्यातः अस्ति। एषः जनः धाराप्रवाहं संस्कृतं वक्तुं शक्नोति। मूलतः सः समाजसेवकः अस्ति। भाजपादलस्य विधायकरूपेण वारद्वयं सः विजयं प्राप्तवान् अस्ति । सारंगीमहोदयः अतिसामान्यं जीवनं जीवति । सदासर्वदा द्विचक्रिकया एव भ्रमणं, अतिसामान्यवस्त्राणि, निवासः तु सामान्यं कुटीरं, ग्रामपञ्चायतस्य हेंडपम्प-जलेन एव स्नानम्, न मोटरयानं, न संरक्षकाः किं बहुना उक्तेन……
निर्वाचनाय कोटिशः रूप्यकाणाम् आवश्यकता भवति इति चिन्तयतां जनानां कृते अयम् उदाहरणम् अस्ति। सरलता, सततं समाजसेवा, निःस्पृहीत्वं, जनस्नेहः इति कारणैः लोकमुखे तस्य नाम सादरं स्वीक्रियते ।