Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतं केवलं धर्मभाषा न परन्तु जीवनभाषा । संस्कृतभाषायाः महत्त्वं विज्ञाय इतिहासे नैके नैदेशिकाः तस्य अध्ययनं कृत्वा स्वजीवनं सफलं कृतवन्तः । न केवलं वैदेशिकाः परन्तु भारते अपि अन्यधर्मानुयायिनः अपि संस्कृतं पठित्वा आत्मानं धन्याः मन्यन्ते । तेषु अन्यतमः अस्ति संस्कृतसेवकः पण्डितः गुलाम-दस्तगीर-बिराजदारः । अयं महान् जनः २२/०४/२१ तमे दिनाङ्के गुरुवासरे ८७ वयसि पवित्रे रमझानमासे दिवङ्गतः ।

गुलामदस्तगीरमहोदयः महाराष्ट्रस्य सोलापुरस्य अक्कलकोटतहसीलस्य निवासी आसीत् ।

तस्य परिवारे पुत्रः पुत्र्यौ पौत्राः च सन्ति । सर्वेषां पुत्राणां विवाहस्य पत्रिका अपि तेन संस्कृतेन एव कारयित्वा संस्कृतप्रचारस्य प्रेरकम् उदाहरणं प्रस्तुतम् ।

सः वेदानां सम्यक् ज्ञाता आसीत् ।

महोदयः वाराणस्याः विश्वसंस्कृतप्रतिष्ठानस्य सचिवत्वेन सेवां दत्तवान् अस्ति । महाराष्ट्रसर्वकारस्य विद्यालयपाठ्यपुस्तकसमितेः अध्यक्षरूपेण अपि तेन मार्गदर्शनं कृतम् अस्ति ।

नैकेषु पूजा-अनुष्ठानकार्यक्रमेषु जनाः तं पण्डितत्वेन आह्वयन्ति स्म।

सः एकस्मिन् कार्यक्रमे अकथयत् – “ अहं संस्कृतस्य प्रचाराय कार्यं कुर्वन् अस्मि ।  नैकेषु स्थानेषु मया संस्कृतं पाठितम् । नैकेषु स्थानेषु व्याख्यानानि दत्तानि  परन्तु न केनापि उक्तं यत् मुस्लिमैः संस्कृतं न पठनीयम् । संस्कृतस्य विद्वांसः अपि मम कार्यस्य प्रशंसां कुर्वन्तः सन्ति ।“ इति ।                        

पूर्वराष्ट्रपतिः स्व. के. आर. नारायणः तस्मै प्रशस्तिपत्रेण सम्मानं दत्तवान् अस्ति ।

संस्कृतभाषायाः प्रचाराय प्रसाराय च तस्य कार्यं नितरां प्रशंसनीयं प्रेरकम् चास्ति ।

अयं पण्डितः स्वात्मानं सामान्यः प्रचारकः मन्यते स्म । सेवानिवृत्त्यन्तनतरं सः समग्रे देशे भ्रमणं कृत्वा कार्यशालासु अधिवेशनेषु च संस्कृतप्रचारं करोति स्म ।

तेन कुरान-शरीफ इत्यस्य ग्रन्थस्य संस्कृतानुवादः अपि कृतः अस्ति। तेन संस्कृतभाषायाः अन्यग्रन्थाः अपि लिखिताः सन्ति । 

तेन अमरचित्रकथायाः संस्कृतानुवादः अपि कृतः अस्ति ।

अनेकेषु वैदिकसम्मेलनेषु सः विशिष्टातिथिरूपेण स्वमार्गदर्शनं दत्तवान् अस्ति ।

विद्यालयीयशिक्षणे संस्कृतम् अनिवार्यरूपेण पाठनीयम् इति तस्य मतम् आसीत् अपि च तदर्थं सः यथायोग्यं प्रयत्नम् अपि कृतवान् ।

अद्यतनवार्ता

भारतम्

विश्वम्