अलीगढ मुस्लिम विश्व विद्यालयस्य संस्कृतप्राध्यापकेन व्होट्स अप माध्यमेन स्वभार्यायै तलाक् दत्तम्। पत्नी यास्मिन् खालीद उक्तवती यत् स्वपतिः खालिद बीन युसुफ खान तां गृहात् निष्कासितवान् सन्देश माध्यमेन च तलाक् अपि दत्तवान् अस्ति। एतस्य अत्याचारस्य विरुद्धं तेन सर्वत्र सहायता काङ्क्षिता परन्तु सम्यक् प्रत्युत्तरं प्राप्तं नास्ति। तया उक्तं यत् यदि सा न्यायं न प्राप्स्यति तर्हि विश्वविद्यालयस्य कुलपतिनः गृहस्य पुरतः सा आत्मविलोपनं करिष्यति।