बालिवुड्-अभिनेता सैफ-अली खानस्य उपरि आक्रमणे शङ्कितः इति रूपेण छत्तीसगढस्य दुर्ग-नगरे निरुद्धः आकाशकनोजियानामकः पुरुषः स्वस्य दुःखं प्रकटितवान्। सः न्यायस्य अपि आग्रहं कृतवान् अस्ति। समाचारानुसारं मुम्बईपुलिसदलस्य सूचनायाः आधारेण रेलसंरक्षणबलेन 18 जनवरी दिनाङ्के दुर्गस्थानके निरुद्धः। १९ जनवरी दिनाङ्के प्रातःकाले मुम्बईपुलिसद्वारा बाङ्गलादेशस्य नागरिकस्य शरीफुल इस्लामस्य गृहीत:, तदनन्तरं दुर्ग-आरपीएफ इत्यनेन आकाश: मुक्त: कृत:।
संचारमाध्यमै: सह वार्तालापं कुर्वन् आकाशकनोजिया अवदत् यत्, "यदा मीडिया मम छायाचित्रं दर्शयितुं आरब्धवान्, अस्मिन् प्रकरणे अहमेव प्रमुखः शङ्कितः इति प्रतिपादनं कर्तुम् आरब्धवान् तदा मम परिवारः स्तब्धः अभवत्। मुम्बईपुलिसदलस्य एकया त्रुट्या मम जीवनं नष्टम्। ते सामान्यं निरीक्षणं कर्तुम् असफलाः अभवन् यत् मम श्मश्रुः आसीत्, अभिनेतुः गृहे सीसीटीवी-दृश्येषु दृष्टस्य पुरुषस्य श्मश्रुः नासीत्। ग्रहणस्यानन्तरं मुम्बईपुलिसदलेन अहं प्रताडित:। मम जीवनं पूर्णतया बाधितं जातं, मम कार्यं नास्ति, परिवारः अपि मानहाने: पीडित: अस्ति।"