Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालक: मोहनभागवतः शनिवासरे (१२ अक्टोबर्) विजयादशमीकार्यक्रमे अवदत् यत् भारतं विगतकेषु वर्षेषु सुदृढं जातम् अस्ति तथा च विश्वे तस्य विश्वसनीयता अपि वर्धिता अस्ति, परन्तु भ्रमात्मकानि षड्यन्त्राणि देशस्य संकल्पस्य परीक्षां कुर्वन्ति। बाङ्गलादेशस्य स्थितिं निर्दिश्य मोहनभागवतः अवदत् यत् तत्र भ्रमोत्पादनं भवति यत् भारतात् भयम् अस्ति, तेषां रक्षणार्थं पाकिस्तानेन सह सम्बन्ध: सुदृढीकरणीय: इति । 

व्यक्तिगतचरित्रस्य राष्ट्रीयचरित्रस्य च दृढता धर्मस्य विजयाय बलस्य आधारभूता भवति, यद्यपि स्थितिः अनुकूला अस्ति वा न वा। संघप्रमुखः अवदत् यत् अस्माभि: अहिल्याबाई होल्कर, दयानन्दसरस्वती इत्यादिभ्यः अनेकेभ्यः व्यक्तिभ्यः प्रेरणा ग्रहीतव्या ये देशस्य, धर्मस्य, संस्कृत्या:, समाजस्य च कल्याणाय स्वजीवनं समर्पितवन्तः।

 हमास-इजरायलयोः मध्ये विग्रहः कदा पर्यन्तं स्थास्यति इति सर्वेषां चिन्ताया: विषय: अस्ति।  विगतकेषु वर्षेषु भारतं बलवत्तरं जातम्, विश्वे तस्य विश्वसनीयता अपि वर्धिता इति सर्वेषां मनसि भवति। कोऽपि देशः जनानां राष्ट्रियचरित्रेण महान् भवति। इदं वर्षं महत्त्वपूर्णं यतः वयं संघस्य शताब्दीवर्षे प्रवेशं कुर्मः। 

भारते आशाः आकांक्षाः च सन्ति परन्तु ताभि: सह समस्याः अपि विद्यन्ते। सर्वकारः स्वकार्यं प्रति प्रतिबद्धः एव तिष्ठति। देशस्य यु:, मातृशक्ति:, उद्यमिन:, कृषका:, श्रमिका:, आरक्षका:, प्रशासनं अन्ये च सर्वे प्रतिबद्धतापूर्वक स्वकार्ये निरता: स्थास्यन्ति।

गतवर्षेषु राष्ट्रहितप्रेरणया, सर्वेषां प्रयत्नानाम् कारणेन च भारतस्य प्रभाव:, शक्तिः, यशः, विश्वमञ्चे स्थानं च निरन्तरं सुदृढं भवति, परन्तु किमपि दुर्गमं षड्यंत्रं भवति इव भाति।अस्माकं पुरतः ये प्रादुर्भूताः तेषां सम्यक् अवगमनम् आवश्यकम्। सद्भावं प्रति देशं नेतुम् मूल्यानां पुनः जागाणं कर्तव्यम्।

अद्यतनवार्ता

भारतम्

विश्वम्